Sukta 5.51
विश्वे देवा नो अद्या स्वस्तये वैश्वानरो वसुरग्निः स्वस्तये । देवा अवन्त्वृभवः स्वस्तये स्वस्ति नो रुद्रः पात्वंहसः ॥
विश्वे॑ दे॒वा नो॑ अ॒द्या स्व॒स्तये॑ वैश्वान॒रो वसु॑र॒ग्निः स्व॒स्तये॑ । दे॒वा अ॑वन्त्वृ॒भव॑: स्व॒स्तये॑ स्व॒स्ति नो॑ रु॒द्रः पा॒त्वंह॑सः ॥
víśve devā́ no adyā́ svastáye vaiśvānaráo vásur agníḥ svastáye | devā́ avantv ṛ́bhavaḥ svastáye svastí no rudráḥ pātv áṃhasaḥ ||
May all the gods be for our well-being today; may Vaiśvānara, the good Agni, be for our well-being. May the Ṛbhus protect us for our well-being; may Rudra guard our well-being from the crookedness of harm—so that the being may remain intact and fearless.
विश्वे॑ । दे॒वाः । नः॒ । अ॒द्य । स्व॒स्तये॑ । वै॒श्वा॒न॒रः । वसुः॑ । अ॒ग्निः । स्व॒स्तये॑ । दे॒वाः । अ॒व॒न्तु॒ । ऋ॒भवः॑ । स्व॒स्तये॑ । स्व॒स्ति । नः॒ । रु॒द्रः । पा॒तु॒ । अंह॑सः ॥विश्वे । देवाः । नः । अद्य । स्वस्तये । वैश्वानरः । वसुः । अग्निः । स्वस्तये । देवाः । अवन्तु । ऋभवः । स्वस्तये । स्वस्ति । नः । रुद्रः । पातु । अंहसः ॥viśve | devāḥ | naḥ | adya | svastaye | vaiśvānaraḥ | vasuḥ | agniḥ | svastaye | devāḥ | avantu | ṛbhavaḥ | svastaye | svasti | naḥ | rudraḥ | pātu | aṃhasaḥ