Sukta 5.51
स्वस्तये वायुमुप ब्रवामहै सोमं स्वस्ति भुवनस्य यस्पतिः । बृहस्पतिं सर्वगणं स्वस्तये स्वस्तय आदित्यासो भवन्तु नः ॥
स्व॒स्तये॑ वा॒युमुप॑ ब्रवामहै॒ सोमं॑ स्व॒स्ति भुव॑नस्य॒ यस्पति॑: । बृह॒स्पतिं॒ सर्व॑गणं स्व॒स्तये॑ स्व॒स्तय॑ आदि॒त्यासो॑ भवन्तु नः ॥
svastáye vāyúm úpa bravāmahai sómaṃ svastí bhúvanasya yás pátiḥ | bṛ́haspátiṃ sárvagaṇaṃ svastáye svastáya ādityā́so bhavantu naḥ ||
For our well-being we invoke Vāyu; for our well-being Soma, lord of the world’s becoming; for our well-being we call Bṛhaspati with all his host—may the Ādityas become for us the powers of well-being: a guarded path, a widened mind, and a secure truth.
स्व॒स्तये॑ । व॒युम् । उप॑ । ब्र॒वा॒म॒है॒ । सोम॑म् । स्व॒स्ति । भुव॑नस्य । यः । पतिः॑ । बृह॒स्पति॑म् । सर्व॑ऽगणम् । स्व॒स्तये॑ । स्व॒स्तये॑ । आ॒दि॒त्यासः॑ । भ॒व॒न्तु॒ । नः॒ ॥स्वस्तये । वयुम् । उप । ब्रवामहै । सोमम् । स्वस्ति । भुवनस्य । यः । पतिः । बृहस्पतिम् । सर्वगणम् । स्वस्तये । स्वस्तये । आदित्यासः । भवन्तु । नः ॥svastaye | vayum | upa | bravāmahai | somam | svasti | bhuvanasya | yaḥ | patiḥ | bṛhaspatim | sarva-gaṇam | svastaye | svastaye | ādityāsaḥ | bhavantu | naḥ