Sukta 5.51
सजूरादित्यैर्वसुभिः सजूरिन्द्रेण वायुना । आ याह्यग्ने अत्रिवत्सुते रण ॥
स॒जूरा॑दि॒त्यैर्वसु॑भिः स॒जूरिन्द्रे॑ण वा॒युना॑ । आ या॑ह्यग्ने अत्रि॒वत्सु॒ते र॑ण ॥
sajū́r ādityáir vásubhiḥ sajū́r índreṇa vāyúnā | ā́ yāhy agne atrivát suté ráṇa ||
In one accord with the Ādityas and the Vasus, in one accord with Indra and Vāyu, come, O Agni, in the Atri-way; rejoice in the pressed Soma—let the sustaining powers and the victorious breath-mind act together in the flame that leads the ascent.
स॒ऽजूः । आ॒दि॒त्यैः । वसु॑ऽभिः । स॒ऽजूः । इन्द्रे॑ण । वा॒युना॑ । आ । या॒हि॒ । अ॒ग्ने॒ । अ॒त्रि॒ऽवत् । सु॒ते । रण॒ ॥सजूः । आदित्यैः । वसुभिः । सजूः । इन्द्रेण । वायुना । आ । याहि । अग्ने । अत्रिवत् । सुते । रण ॥sa-jūḥ | ādityaiḥ | vasu-bhiḥ | sa-jūḥ | indreṇa | vāyunā | ā | yāhi | agne | atri-vat | sute | raṇa