Sukta 5.50
यत्र वह्निरभिहितो दुद्रवद्द्रोण्यः पशुः । नृमणा वीरपस्त्योऽर्णा धीरेव सनिता ॥
यत्र॒ वह्नि॑र॒भिहि॑तो दु॒द्रव॒द्द्रोण्य॑: प॒शुः । नृ॒मणा॑ वी॒रप॒स्त्योऽर्णा॒ धीरे॑व॒ सनि॑ता ॥
yátra váhnir abhíhito dudrávad droṇyàḥ paśúḥ | nṛmánā vīrápastyó 'rṇā́ dhī́revá sánitā ||
Where the bearer of the offering, once set in front, runs swiftly like a creature of the trough; there the force that thinks in man and works heroically wins the streams, like a steady mind that knows how to gain.
यत्र॑ । वह्निः॑ । अ॒भिऽहि॑तः । दु॒द्रव॑त् । द्रोण्यः॑ । प॒शुः । नृ॒ऽमनाः॑ । वी॒रऽप॑स्त्यः । अर्णाः॑ । धीरा॑ऽइव । सनि॑ता ॥यत्र । वह्निः । अभिहितः । दुद्रवत् । द्रोण्यः । पशुः । नृमनाः । वीरपस्त्यः । अर्णाः । धीराइव । सनिता ॥yatra | vahniḥ | abhi-hitaḥ | dudravat | droṇyaḥ | paśuḥ | nṛ-manāḥ | vīra-pastyaḥ | arṇāḥ | dhīrāiva | sanitā