Sukta 5.50
अतो न आ नॄनतिथीनतः पत्नीर्दशस्यत । आरे विश्वं पथेष्ठां द्विषो युयोतु यूयुविः ॥
अतो॑ न॒ आ नॄनति॑थी॒नत॒: पत्नी॑र्दशस्यत । आ॒रे विश्वं॑ पथे॒ष्ठां द्वि॒षो यु॑योतु॒ यूयु॑विः ॥
ató na ā́ nṝ́n atithī́n ataḥ pátnīr daśasyata | āré víśvaṁ patheṣṭhā́ṁ dviṣó yuyotu yū́yuviḥ ||
Therefore bring to us the men and the welcomed powers, and therefore honour the lady-forces that uphold the home of the sacrifice. Far away, from the very standing-place of the path, let the hater be driven off by the one who keeps us safe.
अतः॑ । नः॒ । आ । नॄन् । अति॑थीन् । अतः॑ । पत्नीः॑ । द॒श॒स्य॒त॒ । आ॒रे । विश्व॑म् । प॒थे॒ऽस्थाम् । द्वि॒षः । यु॒यो॒तु॒ यूयु॑विः ॥अतः । नः । आ । नॄन् । अतिथीन् । अतः । पत्नीः । दशस्यत । आरे । विश्वम् । पथेस्थाम् । द्विषः । युयोतु यूयुविः ॥ataḥ | naḥ | ā | nṝn | atithīn | ataḥ | patnīḥ | daśasyata | āre | viśvam | pathe--sthām | dviṣaḥ | yuyotuyūyuviḥ