Sukta 5.5
नराशंसः सुषूदतीमं यज्ञमदाभ्यः । कविर्हि मधुहस्त्यः ॥
नरा॒शंस॑: सुषूदती॒मं य॒ज्ञमदा॑भ्यः । क॒विर्हि मधु॑हस्त्यः ॥
narāśáṃsaḥ suṣūdátīm imáṃ yajñám adā́bhyaḥ | kavír hí mádhuhastyaḥ ||
Narāśaṃsa, the unfailing seer, perfects this sacrifice that moves well to its goal; for he is the poet with honeyed hands—one who shapes the sweetness of the offering into the rite.
नरा॒शंसः॑ । सु॒सू॒द॒ति॒ । इ॒मम् । य॒ज्ञम् । अदा॑भ्यः । क॒विः । हि । मधु॑ऽहस्त्यः ॥नराशंसः । सुसूदति । इमम् । यज्ञम् । अदाभ्यः । कविः । हि । मधुहस्त्यः ॥narāśaṃsaḥ | susūdati | imam | yajñam | adābhyaḥ | kaviḥ | hi | madhu-hastyaḥ