Sukta 5.49
तन्नो अनर्वा सविता वरूथं तत्सिन्धव इषयन्तो अनु ग्मन् । उप यद्वोचे अध्वरस्य होता रायः स्याम पतयो वाजरत्नाः ॥
तन्नो॑ अन॒र्वा स॑वि॒ता वरू॑थं॒ तत्सिन्ध॑व इ॒षय॑न्तो॒ अनु॑ ग्मन् । उप॒ यद्वोचे॑ अध्व॒रस्य॒ होता॑ रा॒यः स्या॑म॒ पत॑यो॒ वाज॑रत्नाः ॥
tán no anarvā́ savitā́ varū́thaṃ tát síndhava iṣáyanto ánu gman | úpa yád vóce adhvarásya hótā rāyáḥ syāma pátayo vā́jaratnāḥ ||
May Savitṛ, the unerring, be for us that protecting refuge; and may the rivers, pressing forward with their urge, follow after it. When I, the hotṛ of the sacrifice, speak near in the rite, may we become lords of spiritual plenitude and treasures of force.
तत् । नः॒ । अ॒न॒र्वा । स॒वि॒ता । वरू॑थम् । तत् । सिन्ध॑वः । इ॒षय॑न्तः । अनु॑ । ग्म॒न् । उप॑ । यत् । वोचे॑ । अ॒ध्व॒रस्य॑ । होता॑ । रा॒यः । स्या॒म॒ । पत॑यः । वाज॑ऽरत्नाः ॥तत् । नः । अनर्वा । सविता । वरूथम् । तत् । सिन्धवः । इषयन्तः । अनु । ग्मन् । उप । यत् । वोचे । अध्वरस्य । होता । रायः । स्याम । पतयः । वाजरत्नाः ॥tat | naḥ | anarvā | savitā | varūtham | tat | sindhavaḥ | iṣayantaḥ | anu | gman | upa | yat | voce | adhvarasya | hotā | rāyaḥ | syāma | patayaḥ | vāja-ratnāḥ