Sukta 5.49
प्र ये वसुभ्य ईवदा नमो दुर्ये मित्रे वरुणे सूक्तवाचः । अवैत्वभ्वं कृणुता वरीयो दिवस्पृथिव्योरवसा मदेम ॥
प्र ये वसु॑भ्य॒ ईव॒दा नमो॒ दुर्ये मि॒त्रे वरु॑णे सू॒क्तवा॑चः । अवै॒त्वभ्वं॑ कृणु॒ता वरी॑यो दि॒वस्पृ॑थि॒व्योरव॑सा मदेम ॥
prá ye vásubhya ī́vadā námo dúrye mitré váruṇe sūktá-vācaḥ | aváitv ábhvaṁ kṛṇutá várīyo diváḥpṛthivyór avásā madema ||
Forward go our words of good utterance, bearing the homage that reaches the Vasus, and that is hard to resist for Mitra and Varuṇa. Let the vast obstruction sink away; make for us a wider, freer path. By the fostering power of Heaven and Earth may we grow glad in the inner plenitude.
प्र । ये । वसु॑ऽभ्यः । ईव॑त् । आ । नमः॑ । दुः । ये । मि॒त्रे । वरु॑णे । सू॒क्तऽवा॑चः । अव॑ । ए॒तु॒ । अभ्व॑म् । कृ॒णु॒त । वरी॑यः । दि॒वःपृ॑थि॒व्योः । अव॑सा । म॒दे॒म॒ ॥प्र । ये । वसुभ्यः । ईवत् । आ । नमः । दुः । ये । मित्रे । वरुणे । सूक्तवाचः । अव । एतु । अभ्वम् । कृणुत । वरीयः । दिवःपृथिव्योः । अवसा । मदेम ॥pra | ye | vasu-bhyaḥ | īvat | ā | namaḥ | duḥ | ye | mitre | varuṇe | sūkta-vācaḥ | ava | etu | abhvam | kṛṇuta | varīyaḥ | divaḥpṛthivyoḥ | avasā | madema