Sukta 5.49
अदत्रया दयते वार्याणि पूषा भगो अदितिर्वस्त उस्रः । इन्द्रो विष्णुर्वरुणो मित्रो अग्निरहानि भद्रा जनयन्त दस्माः ॥
अ॒द॒त्र॒या द॑यते॒ वार्या॑णि पू॒षा भगो॒ अदि॑ति॒र्वस्त॑ उ॒स्रः । इन्द्रो॒ विष्णु॒र्वरु॑णो मि॒त्रो अ॒ग्निरहा॑नि भ॒द्रा ज॑नयन्त द॒स्माः ॥
adatrayā́ dayate vā́ryāṇi pūṣā́ bhágo áditiḥ vásta usrā́ḥ | índro víṣṇur váruṇo mitró agnír áhāni bhadrā́ janayanta dasmā́ḥ ||
By the undiminishing giving, Pūṣan grants the desirable boons; Bhaga, Aditi, and the bright Dawns clothe us in increase. Indra, Viṣṇu, Varuṇa, Mitra, Agni—these wonderful powers bring forth days that are auspicious.
अ॒द॒त्र॒ऽया । द॒य॒ते॒ । वार्या॑णि । पू॒षा । भगः॑ । अदि॑तिः । वस्ते॑ । उ॒स्रः । इन्द्रः॑ । विष्णुः॑ । वरु॑णः । मि॒त्रः । अ॒ग्निः । अहा॑नि । भ॒द्रा । ज॒न॒य॒न्त॒ । द॒स्माः ॥अदत्रया । दयते । वार्याणि । पूषा । भगः । अदितिः । वस्ते । उस्रः । इन्द्रः । विष्णुः । वरुणः । मित्रः । अग्निः । अहानि । भद्रा । जनयन्त । दस्माः ॥adatra-yā | dayate | vāryāṇi | pūṣā | bhagaḥ | aditiḥ | vaste | usraḥ | indraḥ | viṣṇuḥ | varuṇaḥ | mitraḥ | agniḥ | ahāni | bhadrā | janayanta | dasmāḥ