Sukta 5.49
प्रति प्रयाणमसुरस्य विद्वान्त्सूक्तैर्देवं सवितारं दुवस्य । उप ब्रुवीत नमसा विजानञ्ज्येष्ठं च रत्नं विभजन्तमायोः ॥
प्रति॑ प्र॒याण॒मसु॑रस्य वि॒द्वान्त्सू॒क्तैर्दे॒वं स॑वि॒तारं॑ दुवस्य । उप॑ ब्रुवीत॒ नम॑सा विजा॒नञ्ज्येष्ठं॑ च॒ रत्नं॑ वि॒भज॑न्तमा॒योः ॥
práti prayā́ṇam ásurasya vidvā́n sū́ktair deváṃ savitā́raṃ duvasya | úpa bruvīta nám asā vijānán jyéṣṭhaṃ ca rátnaṃ vibhájantam āyóḥ ||
Knowing the forward-going movement of the Asura, with well-wrought hymns serve the god Savitṛ. Let him speak near with reverence, discerning the eldest treasure that he distributes for the growth of life.
प्रति॑ । प्र॒ऽयान॑म् । असु॑रस्य । वि॒द्वान् । सु॒ऽउ॒क्तैः । दे॒वम् । स॒वि॒तार॑म् । दु॒व॒स्य॒ । उप॑ । ब्रु॒वी॒त॒ । नम॑सा । वि॒ऽजा॒नन् । ज्येष्ठ॑म् । च॒ । रत्न॑म् । वि॒ऽभज॑न्तम् । आ॒योः ॥प्रति । प्रयानम् । असुरस्य । विद्वान् । सुउक्तैः । देवम् । सवितारम् । दुवस्य । उप । ब्रुवीत । नमसा । विजानन् । ज्येष्ठम् । च । रत्नम् । विभजन्तम् । आयोः ॥prati | pra-yānam | asurasya | vidvān | su-uktaiḥ | devam | savitāram | duvasya | upa | bruvīta | namasā | vi-jānan | jyeṣṭham | ca | ratnam | vi-bhajantam | āyoḥ