Sukta 5.49
देवं वो अद्य सवितारमेषे भगं च रत्नं विभजन्तमायोः । आ वां नरा पुरुभुजा ववृत्यां दिवेदिवे चिदश्विना सखीयन् ॥
दे॒वं वो॑ अ॒द्य स॑वि॒तार॒मेषे॒ भगं॑ च॒ रत्नं॑ वि॒भज॑न्तमा॒योः । आ वां॑ नरा पुरुभुजा ववृत्यां दि॒वेदि॑वे चिदश्विना सखी॒यन् ॥
deváṃ vo adyá savitā́ram eṣé bhágaṃ ca rátnaṃ vibhájantam āyóḥ | ā́ vāṃ narā purubhujā vavṛtyāṃ divédive cid aśvinā sakhīyán ||
Today I seek for you the god Savitṛ, and Bhaga too, who apportions the treasure for life’s increase. And to you, O two lords who enjoy in many ways, O Aśvins, I would turn day by day, desiring your friendship.
दे॒वम् । वः॒ । अ॒द्य । स॒वि॒तार॑म् । आ । ई॒षे॒ । भग॑म् । च॒ । रत्न॑म् । वि॒ऽभज॑न्तम् । आ॒योः । आ । वा॒म् । न॒रा॒ । पु॒रु॒ऽभु॒जा॒ । व॒वृ॒त्या॒म् । दि॒वेऽदि॑वे । चि॒त् । अ॒श्वि॒ना॒ । स॒खि॒ऽयन् ॥देवम् । वः । अद्य । सवितारम् । आ । ईषे । भगम् । च । रत्नम् । विभजन्तम् । आयोः । आ । वाम् । नरा । पुरुभुजा । ववृत्याम् । दिवेदिवे । चित् । अश्विना । सखियन् ॥devam | vaḥ | adya | savitāram | ā | īṣe | bhagam | ca | ratnam | vi-bhajantam | āyoḥ | ā | vām | narā | puru-bhujā | vavṛtyām | dive--dive | cit | aśvinā | sakhi-yan