Sukta 5.48
तामस्य रीतिं परशोरिव प्रत्यनीकमख्यं भुजे अस्य वर्पसः । सचा यदि पितुमन्तमिव क्षयं रत्नं दधाति भरहूतये विशे ॥
ताम॑स्य री॒तिं प॑र॒शोरि॑व॒ प्रत्यनी॑कमख्यं भु॒जे अ॑स्य॒ वर्प॑सः । सचा॒ यदि॑ पितु॒मन्त॑मिव॒ क्षयं॒ रत्नं॒ दधा॑ति॒ भर॑हूतये वि॒शे ॥
tā́m asya rītíṃ paraśór iva práty anī́kam akhyaṃ bhujé asya várpasaḥ | sacā́ yádi pitumántam iva kṣáyaṃ rátnam dádhāti bhárahūtaye viśé ||
That course of his I behold, like the stroke of an axe, set face to face—his front of luminous form. And when he sets the treasure in a dwelling rich with nourishment, then for the clan that calls for support he establishes the boon.
ताम् । अ॒स्य॒ । री॒तिम् । प॒र॒शोःऽइ॑व । प्रति॑ । अनी॑कम् । अ॒ख्य॒म् । भु॒जे । अ॒स्य॒ । वर्प॑सः । सचा॑ । यदि॑ । पि॒तु॒मन्त॑म्ऽइव । क्षय॑म् । रत्न॑म् । दधा॑ति । भर॑ऽहूतये । वि॒शे ॥ताम् । अस्य । रीतिम् । परशोःइव । प्रति । अनीकम् । अख्यम् । भुजे । अस्य । वर्पसः । सचा । यदि । पितुमन्तम्इव । क्षयम् । रत्नम् । दधाति । भरहूतये । विशे ॥tām | asya | rītim | paraśoḥ-iva | prati | anīkam | akhyam | bhuje | asya | varpasaḥ | sacā | yadi | pitumantam-iva | kṣayam | ratnam | dadhāti | bhara-hūtaye | vi śe