Sukta 5.48
स जिह्वया चतुरनीक ऋञ्जते चारु वसानो वरुणो यतन्नरिम् । न तस्य विद्म पुरुषत्वता वयं यतो भगः सविता दाति वार्यम् ॥
स जि॒ह्वया॒ चतु॑रनीक ऋञ्जते॒ चारु॒ वसा॑नो॒ वरु॑णो॒ यत॑न्न॒रिम् । न तस्य॑ विद्म पुरुष॒त्वता॑ व॒यं यतो॒ भग॑: सवि॒ता दाति॒ वार्य॑म् ॥
sá jihváyā cátur-anīka ṛ́ñjate cā́ru vásāno váruṇo yátann arím | ná tásya vidma puruṣatvátā vayáṃ yáto bhágaḥ savitā́ dā́ti vā́ryam ||
He, with the tongue, the four-fronted one, sets himself in motion—Varuṇa, beautifully robed, striving against the hostile divider. We do not measure his full manhood and vastness; for from him Bhaga, Savitṛ, gives the desirable riches.
सः । जि॒ह्वया॑ । चतुः॑ऽअनीकः । ऋ॒ञ्ज॒ते॒ । चारु॑ । वसा॑नः । वरु॑णः । यत॑न् । अ॒रिम् । न । तस्य॑ । वि॒द्म॒ । पु॒रु॒ष॒ऽत्वता॑ । व॒यम् । यतः॑ । भगः॑ । स॒वि॒ता । दाति॑ । वार्य॑म् ॥सः । जिह्वया । चतुःअनीकः । ऋञ्जते । चारु । वसानः । वरुणः । यतन् । अरिम् । न । तस्य । विद्म । पुरुषत्वता । वयम् । यतः । भगः । सविता । दाति । वार्यम् ॥saḥ | jihvayā | catuḥ-anīkaḥ | ṛñjate | cāru | vasānaḥ | varuṇaḥ | yatan | arim | na | tasya | vidma | puruṣa-tvatā | vayam | yataḥ | bhagaḥ | savitā | dāti | vāryam