Sukta 5.48
आ ग्रावभिरहन्येभिरक्तुभिर्वरिष्ठं वज्रमा जिघर्ति मायिनि । शतं वा यस्य प्रचरन्त्स्वे दमे संवर्तयन्तो वि च वर्तयन्नहा ॥
आ ग्राव॑भिरह॒न्ये॑भिर॒क्तुभि॒र्वरि॑ष्ठं॒ वज्र॒मा जि॑घर्ति मा॒यिनि॑ । श॒तं वा॒ यस्य॑ प्र॒चर॒न्त्स्वे दमे॑ संव॒र्तय॑न्तो॒ वि च॑ वर्तय॒न्नहा॑ ॥
ā́ grā́vabhir ahanyébhir aktúbhir váriṣṭhaṃ vájram ā́ jigharti māyíni | śatáṃ vā́ yásya prácaran své damé saṃvartáyanto ví ca vartayann áhā ||
With the pressing-stones—by days and by nights—the Shaper lifts up the most mighty thunderbolt. In whose own house the forces move in their courses, turning the days together and again turning them apart.
आ । ग्राव॑ऽभिः । अ॒ह॒न्ये॑भिः । अ॒क्तुऽभिः॑ । वरि॑ष्ठम् । वज्र॑म् । आ । जि॒घ॒र्ति॒ । मा॒यिनि॑ । श॒तम् । वा॒ । यस्य॑ । प्र॒ऽचर॑न् । स्वे । दमे॑ । स॒म्ऽव॒र्तय॑न्तः । वि । च॒ । व॒र्त॒य॒न् । अहा॑ ॥आ । ग्रावभिः । अहन्येभिः । अक्तुभिः । वरिष्ठम् । वज्रम् । आ । जिघर्ति । मायिनि । शतम् । वा । यस्य । प्रचरन् । स्वे । दमे । सम्वर्तयन्तः । वि । च । वर्तयन् । अहा ॥ā | grāva-bhiḥ | ahanyebhiḥ | aktu-bhiḥ | variṣṭham | vajram | ā | jigharti | māyini | śatam | vā | yasya | pra-caran | sve | dame | sam-vartayantaḥ | vi | ca | vataryan | ahā