Sukta 5.48
ता अत्नत वयुनं वीरवक्षणं समान्या वृतया विश्वमा रजः । अपो अपाचीरपरा अपेजते प्र पूर्वाभिस्तिरते देवयुर्जनः ॥
ता अ॑त्नत व॒युनं॑ वी॒रव॑क्षणं समा॒न्या वृ॒तया॒ विश्व॒मा रज॑: । अपो॒ अपा॑ची॒रप॑रा॒ अपे॑जते॒ प्र पूर्वा॑भिस्तिरते देव॒युर्जन॑: ॥
tā́ atnata vayúnam vīrávakṣaṇaṃ samānyā́ vṛtáyā víśvam ā́ rájaḥ | apó apā́cīr áparā́ ápējate prá pū́rvābhis tirate devayúr jánaḥ ||
They extend the working knowledge that bears the hero-force; by one common law they widen all the mid-realm. The waters, some flowing forward, some backward, move and surge; and the god-seeking people press on beyond the earlier limits.
ताः । अ॒त्न॒त॒ । व॒युन॑म् । वी॒रऽव॑क्षणम् । स॒मा॒न्या । वृ॒तया॑ । विश्व॑म् । आ । रजः॑ । अपो॒ इति॑ । अपा॑चीः । अप॑राः । अप॑ । ई॒ज॒ते॒ । प्र । पूर्वा॑भिः । ति॒र॒ते॒ । दे॒व॒ऽयुः । जनः॑ ॥ताः । अत्नत । वयुनम् । वीरवक्षणम् । समान्या । वृतया । विश्वम् । आ । रजः । अपो इति । अपाचीः । अपराः । अप । ईजते । प्र । पूर्वाभिः । तिरते । देवयुः । जनः ॥tāḥ | atnata | vayunam | vīra-vakṣaṇam | samānyā | vṛtayā | viśvam | ā | rajaḥ | apo iti | apācīḥ | aparāḥ | apa | ījate | pra | pūrvābhiḥ | tirate | deva-yuḥ | janaḥ