Sukta 5.48
कदु प्रियाय धाम्ने मनामहे स्वक्षत्राय स्वयशसे महे वयम् । आमेन्यस्य रजसो यदभ्र आँ अपो वृणाना वितनोति मायिनी ॥
कदु॑ प्रि॒याय॒ धाम्ने॑ मनामहे॒ स्वक्ष॑त्राय॒ स्वय॑शसे म॒हे व॒यम् । आ॒मे॒न्यस्य॒ रज॑सो॒ यद॒भ्र आँ अ॒पो वृ॑णा॒ना वि॑त॒नोति॑ मा॒यिनी॑ ॥
kádu priyā́ya dhā́mne manāmahe svákṣatrāya sváyaśase mahé vayám | āmenyásya rájaso yád abhrá ā́ṃ apó vṛṇānā́ vitanóti māyínī ||
When indeed shall we turn our thought toward the dear seat of the Great One, who has his own sovereign power and his own splendour? When the mighty Weaver, taking up the waters in the cloud, spreads out the wide realm by her formative power.
कत् । ऊँ॒ इति॑ । प्रि॒याय॑ । धाम्ने॑ । म॒ना॒म॒हे॒ । स्वऽक्ष॑त्राय । स्वऽय॑शसे । म॒हे । व॒यम् । आ॒ऽमे॒न्यस्य॑ । रज॑सः । यत् । अ॒भ्रे । आ । अ॒पः । वृ॒णा॒ना । वि॒ऽत॒नोति॑ । मा॒यिनी॑ ॥कत् । ऊँ इति । प्रियाय । धाम्ने । मनामहे । स्वक्षत्राय । स्वयशसे । महे । वयम् । आमेन्यस्य । रजसः । यत् । अभ्रे । आ । अपः । वृणाना । वितनोति । मायिनी ॥kat | oṃ iti | priyāya | dhāmne | manāmahe | sva-kṣatrāya | sva-yaśase | mahe | vayam | āmenyasya | rajasaḥ | yat | abhre | ā | apaḥ | vṛṇānā | vi-tanoti | māyinī