Sukta 5.46
देवानां पत्नीरुशतीरवन्तु नः प्रावन्तु नस्तुजये वाजसातये । याः पार्थिवासो या अपामपि व्रते ता नो देवीः सुहवाः शर्म यच्छत ॥
दे॒वानां॒ पत्नी॑रुश॒तीर॑वन्तु न॒: प्राव॑न्तु नस्तु॒जये॒ वाज॑सातये । याः पार्थि॑वासो॒ या अ॒पामपि॑ व्र॒ते ता नो॑ देवीः सुहवा॒: शर्म॑ यच्छत ॥
devā́nāṃ pátnīr uśatī́r avantu naḥ prá̄vantu nas tujáye vā́ja-sātaye | yā́ḥ pā́rthivāso yā́ apā́m ápi vraté tā́ no devī́ḥ su-hávāḥ śárma yacchata ||
May the Goddesses, spouses of the Gods, eager in their grace, protect us; may they lead us forward for the pressing battle and for the winning of plenitude of force. Whether they are of the earth or belong to the waters and their law, may those easy-to-call divine powers grant us peace and a secure gladness.
दे॒वाना॑म् । पत्नीः॑ । उ॒श॒तीः । अ॒व॒न्तु॒ । नः॒ । प्र । अ॒व॒न्तु । नः॒ । तु॒जये॑ । वाज॑ऽसातये । याः । पार्थि॑वासः । याः । अ॒पाम् । अपि॑ । व्र॒ते । ताः । नः॒ । दे॒वीः॒ । सु॒ऽह॒वाः॒ । शर्म॑ । य॒च्छ॒त॒ ॥देवानाम् । पत्नीः । उशतीः । अवन्तु । नः । प्र । अवन्तु । नः । तुजये । वाजसातये । याः । पार्थिवासः । याः । अपाम् । अपि । व्रते । ताः । नः । देवीः । सुहवाः । शर्म । यच्छत ॥devānām | patnīḥ | uśatīḥ | avantu | naḥ | pra | avantu | naḥ | tujaye | vāja-sātaye | yāḥ | pārthivāsaḥ | yāḥ | apām | api | vrate | tāḥ | naḥ | devīḥ | su-havāḥ | śarma | yacchata