Sukta 5.46
उत ग्ना व्यन्तु देवपत्नीरिन्द्राण्यग्नाय्यश्विनी राट् । आ रोदसी वरुणानी शृणोतु व्यन्तु देवीर्य ऋतुर्जनीनाम् ॥
उ॒त ग्ना व्य॑न्तु दे॒वप॑त्नीरिन्द्रा॒ण्य१॒॑ग्नाय्य॒श्विनी॒ राट् । आ रोद॑सी वरुणा॒नी शृ॑णोतु॒ व्यन्तु॑ दे॒वीर्य ऋ॒तुर्जनी॑नाम् ॥
utá gnā́ vyàntu deva-pátnīr indrā́ṇy àgnā́yy aśvínī rā́ṭ | ā́ ródasī váruṇānī śṛṇotu vyàntu devī́r yá ṛtúr jánīnām ||
And may the divine women, the consorts of the gods, be awakened into their luminous activity—Indrāṇī, Agnāyī, the Aśvinī, the queenly Power. Let Varuṇānī hear us, together with Heaven and Earth. Let the Goddesses be set in motion in the right season, the true rhythm of births and becomings.
उ॒त । ग्नाः । व्य॒न्तु॒ । दे॒वऽप॑त्नीः । इ॒न्द्रा॒णी । अ॒ग्नायी॑ । अ॒श्विनी॑ । राट् । आ । रोद॑सी॒ इति॑ । व॒रु॒णा॒नी । शृ॒णो॒तु॒ । व्यन्तु॑ । दे॒वीः । यः । ऋ॒तुः । जनी॑नाम् ॥उत । ग्नाः । व्यन्तु । देवपत्नीः । इन्द्राणी । अग्नायी । अश्विनी । राट् । आ । रोदसी इति । वरुणानी । शृणोतु । व्यन्तु । देवीः । यः । ऋतुः । जनीनाम् ॥uta | gnāḥ | vyantu | deva-patnīḥ | indrāṇī | agnāyī | aśvinī | rāṭ | ā | rodasī iti | varuṇānī | śṛṇotu | vyantu | devīḥ | yaḥ | ṛtuḥ | janīnām