Sukta 5.46
उत त्ये नः पर्वतासः सुशस्तयः सुदीतयो नद्यस्त्रामणे भुवन् । भगो विभक्ता शवसावसा गमदुरुव्यचा अदितिः श्रोतु मे हवम् ॥
उ॒त त्ये न॒: पर्व॑तासः सुश॒स्तय॑: सुदी॒तयो॑ न॒द्य१॒॑स्त्राम॑णे भुवन् । भगो॑ विभ॒क्ता शव॒साव॒सा ग॑मदुरु॒व्यचा॒ अदि॑तिः श्रोतु मे॒ हव॑म् ॥
utá tyé naḥ párvatāsaḥ su-śastáyaḥ su-dītáyo nádyaḥ trā́maṇe bhuvan | bhágo vi-bháktā śávasā ávasā ā́ gamad uru-vyácā áditiḥ śrótu me hávam ||
And may those firm Powers—the mountains—well-praised, and the rivers, bright-flowing, become our rescuers. May Bhaga, the distributor of felicities, come with strength and help; may wide-moving Aditi hear my call and open for us the unbroken freedom.
उ॒त । त्ये । नः॒ । पर्व॑तासः । सु॒ऽश॒स्तयः॑ । सु॒ऽदी॒तयः॑ । न॒द्यः॑ । त्राम॑णे । भु॒व॒न् । भगः॑ । वि॒ऽभ॒क्ता । शव॑सा । अव॑सा । आ । ग॒म॒त् । उ॒रु॒ऽव्यचाः॑ । अदि॑तिः । श्रो॒तु॒ । मे॒ । हव॑म् ॥उत । त्ये । नः । पर्वतासः । सुशस्तयः । सुदीतयः । नद्यः । त्रामणे । भुवन् । भगः । विभक्ता । शवसा । अवसा । आ । गमत् । उरुव्यचाः । अदितिः । श्रोतु । मे । हवम् ॥uta | tye | naḥ | parvatāsaḥ | su-śastayaḥ | su-dītayaḥ | nadyaḥ | trāmaṇe | bhuvan | bhagaḥ | vi-bhaktā | śavasā | avasā | ā | gamat | uru-vyacāḥ | aditiḥ | śrotu | me | havam