Sukta 5.46
उत त्यन्नो मारुतं शर्ध आ गमद्दिविक्षयं यजतं बर्हिरासदे । बृहस्पतिः शर्म पूषोत नो यमद्वरूथ्यं वरुणो मित्रो अर्यमा ॥
उ॒त त्यन्नो॒ मारु॑तं॒ शर्ध॒ आ ग॑मद्दिविक्ष॒यं य॑ज॒तं ब॒र्हिरा॒सदे॑ । बृह॒स्पति॒: शर्म॑ पू॒षोत नो॑ यमद्वरू॒थ्यं१॒॑ वरु॑णो मि॒त्रो अ॑र्य॒मा ॥
utá tyán no mārutáṃ śárdha ā́ gamad divi-kṣayáṃ yájatam bárhir ā́-sáde | bṛ́haspátiḥ śárma pūṣót no yámad varū́thyaṃ váruṇo mitró aryamā́ ||
And may that host of the Maruts come to us—dwelling in the luminous heights—worthy of our offering, to sit upon the sacred seat of our aspiration. May Bṛhaspati bring us peace; may Pūṣan too guide us; and may Varuṇa, Mitra, and Aryaman grant us a protecting wideness, a sure shelter for the journey of the soul.
उ॒त । त्यम् । नः॒ । मारु॑तम् । शर्धः॑ । आ । ग॒म॒त् । दि॒वि॒ऽक्ष॒यम् । य॒ज॒तम् । ब॒र्हिः । आ॒ऽसदे॑ । बृह॒स्पतिः॑ । शर्म॑ । पू॒षा । उ॒त । नः॒ । य॒म॒त् । व॒रू॒थ्य॑म् । वरु॑णः । मि॒त्रः । अ॒र्य॒मा ॥उत । त्यम् । नः । मारुतम् । शर्धः । आ । गमत् । दिविक्षयम् । यजतम् । बर्हिः । आसदे । बृहस्पतिः । शर्म । पूषा । उत । नः । यमत् । वरूथ्यम् । वरुणः । मित्रः । अर्यमा ॥uta | tyam | naḥ | mārutam | śardhaḥ | ā | gamat | divi-kṣayam | yajatam | barhiḥ | āsade | bṛhaspatiḥ | śarma | pūṣā | uta | naḥ | yamat | varūthyam | varuṇaḥ | mitraḥ | aryamā