Sukta 5.46
इन्द्राग्नी मित्रावरुणादितिं स्वः पृथिवीं द्यां मरुतः पर्वताँ अपः । हुवे विष्णुं पूषणं ब्रह्मणस्पतिं भगं नु शंसं सवितारमूतये ॥
इ॒न्द्रा॒ग्नी मि॒त्रावरु॒णादि॑तिं॒ स्व॑: पृथि॒वीं द्यां म॒रुत॒: पर्व॑ताँ अ॒पः । हु॒वे विष्णुं॑ पू॒षणं॒ ब्रह्म॑ण॒स्पतिं॒ भगं॒ नु शंसं॑ सवि॒तार॑मू॒तये॑ ॥
indrāgnī́ mitrā́varuṇā́ditim svàr pṛthivī́ṃ dyā́ṃ marútaḥ párvatāṃ ápaḥ | huvè víṣṇuṃ pūṣáṇaṃ bráhmaṇas-pátiṃ bhágaṃ nú śáṃsaṃ savitā́ram ūtáye ||
I call Indra and Agni, Mitra and Varuṇa, Aditi, the luminous world; Earth and Heaven, the Maruts, the Mountains, the Waters. I call Viṣṇu, Pūṣan, Brahmaṇaspati, Bhaga, and the sacred Word of praise, and Savitṛ for help.
इ॒न्द्रा॒ग्नी इति॑ । मि॒त्रावरु॒णा । अदि॑तिम् । स्वरिति॑ स्वः॑ । पृ॒थि॒वीम् । द्याम् । म॒रुतः॑ । पर्व॑तान् । अ॒पः । हु॒वे । विष्णु॑म् । पू॒षण॑म् । ब्रह्म॑णः । पति॑म् । भग॑म् । नु । शंस॑म् । स॒वि॒तार॑म् । ऊ॒तये॑ ॥इन्द्राग्नी इति । मित्रावरुणा । अदितिम् । स्वरिति स्वः । पृथिवीम् । द्याम् । मरुतः । पर्वतान् । अपः । हुवे । विष्णुम् । पूषणम् । ब्रह्मणः । पतिम् । भगम् । नु । शंसम् । सवितारम् । ऊतये ॥indrāgnī iti | mitrāvaruṇā | aditim | svar iti svaḥ | pṛthivīm | dyām | marutaḥ | parvatān | apaḥ | huve | viṣṇum | pūṣaṇam | brahmaṇaḥ | patim | bhagam | nu | śaṃsam | sav itāram | ūtaye