Sukta 5.42
विसर्माणं कृणुहि वित्तमेषां ये भुञ्जते अपृणन्तो न उक्थैः । अपव्रतान्प्रसवे वावृधानान्ब्रह्मद्विषः सूर्याद्यावयस्व ॥
वि॒स॒र्माणं॑ कृणुहि वि॒त्तमे॑षां॒ ये भु॒ञ्जते॒ अपृ॑णन्तो न उ॒क्थैः । अप॑व्रतान्प्रस॒वे वा॑वृधा॒नान्ब्र॑ह्म॒द्विष॒: सूर्या॑द्यावयस्व ॥
vi-sarmā́ṇaṃ kṛṇuhi vittám eṣāṃ yé bhuñjáte ápṛṇanto no ukthaíḥ | ápavratān prasavé vāvṛdhānān brahmadvíṣaḥ sū́ryād yāvayasva ||
Make their gain a scattering and loss—those who consume yet do not fill us back by our hymns. Drive away from the Sun (the light of truth) the lawless ones who grow by perversion, the haters of the sacred Word.
वि॒ऽस॒र्माण॑म् । कृ॒णु॒हि॒ । वि॒त्तम् । ए॒षा॒म् । ये । भु॒ञ्जते॑ । अपृ॑णन्तः । नः॒ । उ॒क्थैः । अप॑ऽव्रतान् । प्र॒ऽस॒वे । व॒वृ॒धा॒नान् । ब्र॒ह्म॒ऽद्विषः॑ । सूर्या॑त् । य॒व॒य॒स्व॒ ॥विसर्माणम् । कृणुहि । वित्तम् । एषाम् । ये । भुञ्जते । अपृणन्तः । नः । उक्थैः । अपव्रतान् । प्रसवे । ववृधानान् । ब्रह्मद्विषः । सूर्यात् । यवयस्व ॥vi-sarmāṇam | kṛṇuhi | vittam | eṣām | ye | bhuñjate | apṛṇantaḥ | naḥ | ukthaiḥ | apa-vratān | pra-save | vavṛdhānān | brahma-dviṣaḥ | sūryāt | yavayasva