Sukta 5.42
य ओहते रक्षसो देववीतावचक्रेभिस्तं मरुतो नि यात । यो वः शमीं शशमानस्य निन्दात्तुच्छ्यान्कामान्करते सिष्विदानः ॥
य ओह॑ते र॒क्षसो॑ दे॒ववी॑तावच॒क्रेभि॒स्तं म॑रुतो॒ नि या॑त । यो व॒: शमीं॑ शशमा॒नस्य॒ निन्दा॑त्तु॒च्छ्यान्कामा॑न्करते सिष्विदा॒नः ॥
yá óhate rákṣaso devávītāv acákrebhis táṃ maruto ní yāta | yó vaḥ śámīṃ śaśamānáस्य nindā́t tucchyā́n kā́mān karate sisvidā́naḥ ||
Whoever assails you, O Maruts, with the Rakṣas in the god-attended sacrifice, fall upon him, O Maruts, with your wheel-less might. And whoever from blame of the toiling seeker makes empty desires—deluding—bring him down.
यः । ओह॑ते । र॒क्षसः॑ । दे॒वऽवी॑तौ । अ॒च॒क्रेभिः॑ । तम् । म॒रु॒तः॒ । नि । या॒त॒ । यः । वः॒ । समी॑म् । श॒श॒मा॒नस्य॑ । निन्दा॑त् । तु॒च्छ्यान् । कामा॑न् । क॒र॒ते॒ । सि॒स्वि॒दा॒नः ॥यः । ओहते । रक्षसः । देववीतौ । अचक्रेभिः । तम् । मरुतः । नि । यात । यः । वः । समीम् । शशमानस्य । निन्दात् । तुच्छ्यान् । कामान् । करते । सिस्विदानः ॥yaḥ | ohate | rakṣasaḥ | deva-vītau | acakrebhiḥ | tam | marutaḥ | ni | yāta | yaḥ | vaḥ | samīm | śaśamānasya | nindāt | tucchyān | kāmān | karate | sisvidānaḥ