Sukta 5.42
तवोतिभिः सचमाना अरिष्टा बृहस्पते मघवानः सुवीराः । ये अश्वदा उत वा सन्ति गोदा ये वस्त्रदाः सुभगास्तेषु रायः ॥
तवो॒तिभि॒: सच॑माना॒ अरि॑ष्टा॒ बृह॑स्पते म॒घवा॑नः सु॒वीरा॑: । ये अ॑श्व॒दा उ॒त वा॒ सन्ति॑ गो॒दा ये व॑स्त्र॒दाः सु॒भगा॒स्तेषु॒ राय॑: ॥
távotíbhiḥ sácamānā áriṣṭā bṛ́haspate maghávānaḥ suvī́rāḥ | yé aśvadā́ utá vā sánti godā́ yé vastradā́ḥ subhágās téṣu rā́yaḥ ||
By your helps, O Bṛhaspati, joining with you, we become unharmed, bountiful and rich in heroes. Those who give the horse-force, or give the rays of Light (cows), those who give the raiment of protection—fortunate are they; in them is the true plenitude.
तव॑ । ऊ॒तिऽभिः॑ । सच॑मानाः । अरि॑ष्टाः । बृह॑स्पते । म॒घऽवा॑नः । सु॒ऽवीराः॑ । ये । अ॒श्व॒ऽदाः । उ॒त । वा॒ । सन्ति॑ । गो॒ऽदाः । ये । व॒स्त्र॒ऽदाः । सु॒ऽभगाः॑ । तेषु॑ । रायः॑ ॥तव । ऊतिभिः । सचमानाः । अरिष्टाः । बृहस्पते । मघवानः । सुवीराः । ये । अश्वदाः । उत । वा । सन्ति । गोदाः । ये । वस्त्रदाः । सुभगाः । तेषु । रायः ॥tava | ūti-bhiḥ | sacamānāḥ | ariṣṭāḥ | bṛhaspate | magha-vānaḥ | su-vīrāḥ | ye | aśva-dāḥ | uta | vā | santi | go--dāḥ | ye | vastra-dāḥ | su-bhagāḥ | teṣu | rāyaḥ