Sukta 5.42
उप स्तुहि प्रथमं रत्नधेयं बृहस्पतिं सनितारं धनानाम् । यः शंसते स्तुवते शम्भविष्ठः पुरूवसुरागमज्जोहुवानम् ॥
उप॑ स्तुहि प्रथ॒मं र॑त्न॒धेयं॒ बृह॒स्पतिं॑ सनि॒तारं॒ धना॑नाम् । यः शंस॑ते स्तुव॒ते शम्भ॑विष्ठः पुरू॒वसु॑रा॒गम॒ज्जोहु॑वानम् ॥
úpa stuhi prathamáṃ ratnadhéyaṃ bṛ́haspátiṃ sanitā́raṃ dhánānām | yáḥ śáṃsate stuvaté śámbhaviṣṭhaḥ purūvásur ā́gamat jóhुवānam ||
Approach and praise first Bṛhaspati, the foundation of the treasure, the winner of riches. Most benignant to him who declares and hymns, the Many-wealthy comes to the one who calls again and again.
उप॑ । स्तु॒हि॒ । प्र॒थ॒मम् । र॒त्न॒ऽधेय॑म् । बृह॒स्पति॑म् । स॒नि॒तार॑म् । धना॑नाम् । यः । शंस॑ते । स्तु॒व॒ते । शम्ऽभ॑विष्ठः । पु॒रु॒ऽवसुः॑ । आ॒ऽगम॑त् । जोहु॑वानम् ॥उप । स्तुहि । प्रथमम् । रत्नधेयम् । बृहस्पतिम् । सनितारम् । धनानाम् । यः । शंसते । स्तुवते । शम्भविष्ठः । पुरुवसुः । आगमत् । जोहुवानम् ॥upa | stuhi | prathamam | ratna-dheyam | bṛhaspatim | sanitāram | dhanānām | yaḥ | śaṃsate | stuvate | śam-bhaviṣṭhaḥ | puru-vasuḥ | āgamat | johuvānam