Sukta 5.42
मरुत्वतो अप्रतीतस्य जिष्णोरजूर्यतः प्र ब्रवामा कृतानि । न ते पूर्वे मघवन्नापरासो न वीर्यं नूतनः कश्चनाप ॥
म॒रुत्व॑तो॒ अप्र॑तीतस्य जि॒ष्णोरजू॑र्यत॒: प्र ब्र॑वामा कृ॒तानि॑ । न ते॒ पूर्वे॑ मघव॒न्नाप॑रासो॒ न वी॒र्यं१॒॑ नूत॑न॒: कश्च॒नाप॑ ॥
marútvato ápratītasya jiṣṇór ájūryataḥ prá bravāma kṛtā́ni | ná te pū́rve maghavan nā́parāso ná vī́ryaṃ nū́tanaḥ káś canā́pa ||
We proclaim the deeds of the victorious one attended by the Maruts, of the unconquered, unfailing power. O Maghavan, neither the former nor the later ones have reached your might; none has attained a new measure of your hero-force.
म॒रुत्व॑तः । अप्र॑तिऽइतस्य । जि॒ष्णोः । अजू॑र्यतः । प्र । ब्र॒वा॒म॒ । कृ॒तानि॑ । न । ते॒ । पूर्वे॑ । म॒घ॒ऽव॒न् । न । अप॑रासः । न । वी॒र्य॑म् । नूत॑नः । कः । च॒न । आ॒प॒ ॥मरुत्वतः । अप्रतिइतस्य । जिष्णोः । अजूर्यतः । प्र । ब्रवाम । कृतानि । न । ते । पूर्वे । मघवन् । न । अपरासः । न । वीर्यम् । नूतनः । कः । चन । आप ॥marutvataḥ | aprati-itasya | jiṣṇoḥ | ajūryataḥ | pra | bravāma | kṛtāni | na | te | pūrve | magha-van | na | aparāsaḥ | na | vīryam | nūtanaḥ | kaḥ | cana | āpa