Sukta 5.42
देवो भगः सविता रायो अंश इन्द्रो वृत्रस्य संजितो धनानाम् । ऋभुक्षा वाज उत वा पुरंधिरवन्तु नो अमृतासस्तुरासः ॥
दे॒वो भग॑: सवि॒ता रा॒यो अंश॒ इन्द्रो॑ वृ॒त्रस्य॑ सं॒जितो॒ धना॑नाम् । ऋ॒भु॒क्षा वाज॑ उ॒त वा॒ पुरं॑धि॒रव॑न्तु नो अ॒मृता॑सस्तु॒रास॑: ॥
devó bhágaḥ savitā rāyó áṃśa índro vṛtrásya saṃjító dhánānām | ṛbhukṣā́ vājá utá vā púraṃdhir ávantu no amṛ́tāsas turā́saḥ ||
May the luminous Bhaga, Savitṛ the Impeller, the Portion of our inner plenitude, and Indra the Conqueror of the Coverer, win for us the true riches. May Ṛbhukṣan and Vāja (the power of effective fullness), and also Purandhi (the right-seeing intelligence), the immortal swift Ones, foster and protect us.
दे॒वः । भगः॑ । स॒वि॒ता । रा॒यः । अंशः॑ । इन्द्रः॑ । वृ॒त्रस्य॑ । स॒म्ऽजितः॑ । धना॑नाम् । ऋ॒भु॒क्षाः । वाजः॑ । उ॒त । वा॒ । पुर॑म्ऽधिः । अव॑न्तु । नः॒ । अ॒मृता॑सः । तु॒रासः॑ ॥देवः । भगः । सविता । रायः । अंशः । इन्द्रः । वृत्रस्य । सम्जितः । धनानाम् । ऋभुक्षाः । वाजः । उत । वा । पुरम्धिः । अवन्तु । नः । अमृतासः । तुरासः ॥devaḥ | bhagaḥ | savitā | rāyaḥ | aṃśaḥ | indraḥ | vṛtrasya | sam-jitaḥ | dhanānām | ṛbhukṣāḥ | vājaḥ | uta | vā | puram-dhiḥ | avantu | naḥ | amṛtāsaḥ | turāsaḥ