Sukta 5.42
समिन्द्र णो मनसा नेषि गोभिः सं सूरिभिर्हरिवः सं स्वस्ति । सं ब्रह्मणा देवहितं यदस्ति सं देवानां सुमत्या यज्ञियानाम् ॥
समि॑न्द्र णो॒ मन॑सा नेषि॒ गोभि॒: सं सू॒रिभि॑र्हरिव॒: सं स्व॒स्ति । सं ब्रह्म॑णा दे॒वहि॑तं॒ यदस्ति॒ सं दे॒वानां॑ सुम॒त्या य॒ज्ञिया॑नाम् ॥
sámindra ṇo mánasā néṣi góbhíḥ sám sūríbhiḥ harivaḥ sám svastí | sám bráhmaṇā deváhitaṃ yád ásti sám devā́nāṃ sumatyā́ yajñíyānām ||
O Indra, lead us together by the mind, with the rays of light, with the illumined seers, O lord of the shining steeds—together into well-being. Lead us together by the inspired Word that is god-placed, and by the right-mindedness of the gods who are worthy of the sacrifice.
सम् । इ॒न्द्र॒ । नः॒ । मन॑सा । ने॒षि॒ । गोभिः॑ । सम् । सू॒रिऽभिः॑ । ह॒रि॒ऽवः॒ । सम् । स्व॒स्ति । सम् । ब्रह्म॑णा । दे॒वऽहि॑त॒म् । यत् । अस्ति॑ । सम् । दे॒वाना॑म् । सु॒ऽम॒त्या । य॒ज्ञिया॑नाम् ॥सम् । इन्द्र । नः । मनसा । नेषि । गोभिः । सम् । सूरिभिः । हरिवः । सम् । स्वस्ति । सम् । ब्रह्मणा । देवहितम् । यत् । अस्ति । सम् । देवानाम् । सुमत्या । यज्ञियानाम् ॥sam | indra | ṇaḥ | manasā | neṣi | gobhiḥ | sam | sūri-bhiḥ | hari-vaḥ | sam | svasti | sam | brahmaṇā | deva-hitam | yat | asti | sam | devānām | su-matyā | yajñ iyānām