Sukta 5.42
उदीरय कवितमं कवीनामुनत्तैनमभि मध्वा घृतेन । स नो वसूनि प्रयता हितानि चन्द्राणि देवः सविता सुवाति ॥
उदी॑रय क॒वित॑मं कवी॒नामु॒नत्तै॑नम॒भि मध्वा॑ घृ॒तेन॑ । स नो॒ वसू॑नि॒ प्रय॑ता हि॒तानि॑ च॒न्द्राणि॑ दे॒वः स॑वि॒ता सु॑वाति ॥
udī́raya kavítamaṃ kavīnā́m unáttainam abhí mádhvā ghṛténa | sá no vásūni práyatā hitā́ni candrā́ṇi deváḥ savitā́ suvāti ||
Raise up the most seerful of the seers; anoint him with honey and clarified light. Then Savitṛ, the God, brings forth for us the riches that are prepared and set in place—luminous, shining possessions of the soul.
उत् । ई॒र॒य॒ । क॒विऽत॑मम् । क॒वी॒नाम् । उ॒नत्त॑ । ए॒न॒म् । अ॒भि । मध्वा॑ । घृ॒तेन॑ । सः । नः॒ । वसू॑नि । प्रऽय॑ता । हि॒तानि॑ । च॒न्द्राणि॑ । दे॒वः । स॒वि॒ता । सु॒वा॒ति॒ ॥उत् । ईरय । कवितमम् । कवीनाम् । उनत्त । एनम् । अभि । मध्वा । घृतेन । सः । नः । वसूनि । प्रयता । हितानि । चन्द्राणि । देवः । सविता । सुवाति ॥ut | īraya | kavi-tamam | kavīnām | unatta | enam | abhi | madhvā | ghṛtena | saḥ | naḥ | vasūni | pra-yatā | hitāni | candrāṇi | devaḥ | savitā | suvāti