Sukta 5.42
प्रति मे स्तोममदितिर्जगृभ्यात्सूनुं न माता हृद्यं सुशेवम् । ब्रह्म प्रियं देवहितं यदस्त्यहं मित्रे वरुणे यन्मयोभु ॥
प्रति॑ मे॒ स्तोम॒मदि॑तिर्जगृभ्यात्सू॒नुं न मा॒ता हृद्यं॑ सु॒शेव॑म् । ब्रह्म॑ प्रि॒यं दे॒वहि॑तं॒ यदस्त्य॒हं मि॒त्रे वरु॑णे॒ यन्म॑यो॒भु ॥
práti me stómaṃ áditiḥ jagṛbhyāt sūnúṃ na mātā hṛ́dyaṃ suśévam | bráhma priyáṃ deváhitaṃ yád asty aháṃ mitré váruṇe yán mayobhú ||
May Aditi receive my hymn as a mother takes her beloved son—heart-dear and full of good shelter. Whatever is in me of the cherished Word, placed by the gods, that I offer to Mitra and Varuṇa, the makers of bliss.
प्रति॑ । मे॒ । स्तोम॑म् । अदि॑तिः । ज॒गृ॒भ्या॒त् । सू॒नुम् । न । मा॒ता । हृद्य॑म् । सु॒ऽशेव॑म् । ब्रह्म॑ । प्रि॒यम् । दे॒वऽहि॑तम् । यत् । अस्ति॑ । अ॒हम् । मि॒त्रे । वरु॑णे । यत् । म॒यः॒ऽभुः ॥प्रति । मे । स्तोमम् । अदितिः । जगृभ्यात् । सूनुम् । न । माता । हृद्यम् । सुशेवम् । ब्रह्म । प्रियम् । देवहितम् । यत् । अस्ति । अहम् । मित्रे । वरुणे । यत् । मयःभुः ॥prati | me | stomam | aditiḥ | jagṛbhyāt | sūnum | na | mātā | hṛdyam | su-śevam | brahma | priyam | deva-hitam | yat | asti | aham | mitre | varuṇe | yat | mayaḥ-bhuḥ