Sukta 5.42
प्र शंतमा वरुणं दीधिती गीर्मित्रं भगमदितिं नूनमश्याः । पृषद्योनिः पञ्चहोता शृणोत्वतूर्तपन्था असुरो मयोभुः ॥
प्र शंत॑मा॒ वरु॑णं॒ दीधि॑ती॒ गीर्मि॒त्रं भग॒मदि॑तिं नू॒नम॑श्याः । पृष॑द्योनि॒: पञ्च॑होता शृणो॒त्वतू॑र्तपन्था॒ असु॑रो मयो॒भुः ॥
prá śáṃtamā váruṇaṃ dī́dhitī gī́r mitráṃ bhágam áditiṃ nūnám aśyāḥ | pṛ́ṣadyóniḥ páñcahotā śṛṇótv atū́rtapanthā ásuro mayobhúḥ ||
Forward goes the most peace-bringing Word, seeking now Varuṇa, Mitra, Bhaga, and Aditi. Let the five-offering Power, whose womb is dappled light, hear it—the Unhindered in his path, the Asura who becomes for us the maker of bliss.
प्र । शम्ऽत॑मा । वरु॑णम् । दीधि॑ती । गीः । मि॒त्रम् । भग॑म् । अदि॑तिम् । नू॒नम् । अ॒श्याः॒ । पृष॑त्ऽयोनिः । पञ्च॑ऽहोता । शृ॒णो॒तु॒ । अतू॑र्तऽपन्थाः । असु॑रः । म॒यः॒ऽभुः ॥प्र । शम्तमा । वरुणम् । दीधिती । गीः । मित्रम् । भगम् । अदितिम् । नूनम् । अश्याः । पृषत्योनिः । पञ्चहोता । शृणोतु । अतूर्तपन्थाः । असुरः । मयःभुः ॥pra | śam-tamā | varuṇam | dīdhitī | gīḥ | mitram | bhagam | aditim | nūnam | aśyāḥ | pṛṣat-yoniḥ | pañca-hotā | śṛṇotu | atūrta-panthāḥ | asuraḥ | mayaḥ-bhuḥ