Sukta 5.42
प्रैष स्तोमः पृथिवीमन्तरिक्षं वनस्पतीँरोषधी राये अश्याः । देवोदेवः सुहवो भूतु मह्यं मा नो माता पृथिवी दुर्मतौ धात् ॥
प्रैष स्तोम॑: पृथि॒वीम॒न्तरि॑क्षं॒ वन॒स्पतीँ॒रोष॑धी रा॒ये अ॑श्याः । दे॒वोदे॑वः सु॒हवो॑ भूतु॒ मह्यं॒ मा नो॑ मा॒ता पृ॑थि॒वी दु॑र्म॒तौ धा॑त् ॥
práiṣa stómaḥ pṛthivī́m antárikṣaṃ vánaspatīṃ r óṣadhī rāyé aśyāḥ | devó-devāḥ suhávo bhūtu máhyaṃ mā no mātā́ pṛthivī́ durmatáu dhāt ||
Forth goes this hymn—toward Earth, the mid-space, the lords of the woods and the healing herbs—so that you may attain plenitude. May the God among gods be easy to invoke for me; may our Mother Earth not place us in a crooked mind and ill-guidance.
प्र । ए॒षः । स्तोमः॑ । पृ॒थि॒वीम् । अ॒न्तरि॑क्षम् । वन॒स्पती॑न् । ओष॑धीः । रा॒ये । अ॒श्याः॒ । दे॒वःऽदे॑वः । सु॒ऽहवः॑ । भू॒तु॒ । मह्य॑म् । मा । नः॒ । मा॒ता । पृ॒थि॒वी । दुः॒ऽम॒तौ । धा॒त् ॥प्र । एषः । स्तोमः । पृथिवीम् । अन्तरिक्षम् । वनस्पतीन् । ओषधीः । राये । अश्याः । देवःदेवः । सुहवः । भूतु । मह्यम् । मा । नः । माता । पृथिवी । दुःमतौ । धात् ॥pra | eṣaḥ | stomaḥ | pṛthivīm | antarikṣam | vanaspatīn | oṣadhīḥ | rāye | aśyāḥ | devaḥ-devaḥ | su-havaḥ | bhūtu | mahyam | mā | naḥ | mātā | pṛthivī | duḥ-matau | dhāt