Sukta 5.42
प्र सुष्टुतिः स्तनयन्तं रुवन्तमिळस्पतिं जरितर्नूनमश्याः । यो अब्दिमाँ उदनिमाँ इयर्ति प्र विद्युता रोदसी उक्षमाणः ॥
प्र सु॑ष्टु॒तिः स्त॒नय॑न्तं रु॒वन्त॑मि॒ळस्पतिं॑ जरितर्नू॒नम॑श्याः । यो अ॑ब्दि॒माँ उ॑दनि॒माँ इय॑र्ति॒ प्र वि॒द्युता॒ रोद॑सी उ॒क्षमा॑णः ॥
prá suṣṭutíḥ stanáyantaṃ ruvántaṃ iḷás pátiṃ jaritar nū́nam aśyāḥ | yó abdimā́ṃ udanimā́ṃ íyarti prá vidyútā ródasī ukṣámāṇaḥ ||
May the well-made praise, O singer, attain now the Lord of the libation, the thundering, the roaring One—he who sets in motion the oceanic and the watery vastness, and with lightning pours upon the two worlds.
प्र । सु॒ऽस्तु॒तिः । स्त॒नय॑न्तम् । रु॒वन्त॑म् । इ॒ळः । पति॑म् । ज॒रि॒तः॒ । नू॒नम् । अ॒श्याः॒ । यः । अ॒ब्दि॒ऽमान् । इय॑र्ति । प्र । वि॒ऽद्युता॑ । रोद॑सी॒ इति॑ । उ॒क्षमा॑णः ॥प्र । सुस्तुतिः । स्तनयन्तम् । रुवन्तम् । इळः । पतिम् । जरितः । नूनम् । अश्याः । यः । अब्दिमान् । इयर्ति । प्र । विद्युता । रोदसी इति । उक्षमाणः ॥pra | suṣṭutiḥ stanayantaṃ ruvantam iḷas patiñ jaritar nūnam aśyāḥ | yo abdimāṃm iyartipra vidyutā rodasī ukṣamāṇaḥ