Sukta 5.42
प्र सू महे सुशरणाय मेधां गिरं भरे नव्यसीं जायमानाम् । य आहना दुहितुर्वक्षणासु रूपा मिनानो अकृणोदिदं नः ॥
प्र सू म॒हे सु॑शर॒णाय॑ मे॒धां गिरं॑ भरे॒ नव्य॑सीं॒ जाय॑मानाम् । य आ॑ह॒ना दु॑हि॒तुर्व॒क्षणा॑सु रू॒पा मि॑ना॒नो अकृ॑णोदि॒दं न॑: ॥
prá sū́ mahé suśaraṇā́ya medhā́ṃ gíraṃ bharé návyasīṃ jā́yamānām | yá āhanā́ duhítur vakṣaṇā́su rūpā́ minānáḥ ákṛṇod idáṃ naḥ ||
Forth for the Great, for the Good Refuge, I bring the inspired intelligence, a newer speech being born. He who, striking in the milking-places of the Daughter, shaping and transforming the forms, has made this for us.
प्र । सु । म॒हे । सु॒श॒र॒णाय॑ । मे॒धाम् । गिर॑म् । भ॒रे॒ । नव्य॑सीम् । जाय॑मानाम् । यः । आ॒ह॒नाः । दु॒हि॒तुः । व॒क्षणा॑सु । रू॒पा । मि॒ना॒नः । अकृ॑णोत् । इ॒दम् । नः॒ ॥प्र । सु । महे । सुशरणाय । मेधाम् । गिरम् । भरे । नव्यसीम् । जायमानाम् । यः । आहनाः । दुहितुः । वक्षणासु । रूपा । मिनानः । अकृणोत् । इदम् । नः ॥pra | su | mahe | suśaraṇāya | medhām | giram | bhare | navyasīm | jāyamānām | yaḥ | āhanāḥ | duhituḥ | vakṣaṇāsu | rūpā | minānaḥ | akṛṇot | idam | naḥ