Sukta 5.42
तमु ष्टुहि यः स्विषुः सुधन्वा यो विश्वस्य क्षयति भेषजस्य । यक्ष्वा महे सौमनसाय रुद्रं नमोभिर्देवमसुरं दुवस्य ॥
तमु॑ ष्टुहि॒ यः स्वि॒षुः सु॒धन्वा॒ यो विश्व॑स्य॒ क्षय॑ति भेष॒जस्य॑ । यक्ष्वा॑ म॒हे सौ॑मन॒साय॑ रु॒द्रं नमो॑भिर्दे॒वमसु॑रं दुवस्य ॥
tám u ṣṭuhi yáḥ svíṣuḥ sudhánvā yó víśvasya kṣáyati bheṣajásya | yákṣvā mahé saumanasā́ya rudráṃ náमोभिर्देवám ásuraṃ duvasya ||
Praise him—Rudra—whose arrow is sure, whose bow is good; who holds mastery over every healing. Sacrifice to the Great for a wideness of goodwill; serve the God, the Asura (mighty life-lord), with acts of reverent offering.
तम् । ऊँ॒ इति॑ । स्तु॒हि॒ । यः । सु॒ऽइ॒षुः । सु॒ऽधन्वा॑ । यः । विश्व॑स्य । क्षय॑ति । भे॒ष॒जस्य॑ । यक्ष्व॑ । म॒हे । सौ॒म॒न॒साय॑ । रु॒द्रम् । नमः॑ऽभिः । दे॒वम् । असु॑रम् । दु॒व॒स्य॒ ॥तम् । ऊँ इति । स्तुहि । यः । सुइषुः । सुधन्वा । यः । विश्वस्य । क्षयति । भेषजस्य । यक्ष्व । महे । सौमनसाय । रुद्रम् । नमःभिः । देवम् । असुरम् । दुवस्य ॥tam | oṃ iti | stuhi | yaḥ | su-iṣuḥ | su-dhanvā | yaḥ | viśvasya | kṣayati | bheṣajasya | yakṣva | mahe | saumanasāya | rudram | namaḥ-bhiḥ | devam | asuram | duvasya