Sukta 5.4
विश्वानि नो दुर्गहा जातवेदः सिन्धुं न नावा दुरिताति पर्षि । अग्ने अत्रिवन्नमसा गृणानोऽस्माकं बोध्यविता तनूनाम् ॥
विश्वा॑नि नो दु॒र्गहा॑ जातवेद॒: सिन्धुं॒ न ना॒वा दु॑रि॒ताति॑ पर्षि । अग्ने॑ अत्रि॒वन्नम॑सा गृणा॒नो॒३॒॑ऽस्माकं॑ बोध्यवि॒ता त॒नूना॑म् ॥
viśvā́ni no durgáhā jā́tavedāḥ síndhuṃ na nā́vā duritā́ti parṣi | agne atrívann ámasā gṛṇānáḥ asmā́kaṃ bodhy avitā́ tanū́nām ||
All our hard passages, O Jātavedas, carry us across beyond the distress, as a boat crosses the river. O Agni, praised with obeisance like Atri, awaken as the protector of our embodied lives.
विश्वा॑नि । नः॒ । दुः॒ऽगहा॑ । जा॒त॒ऽवे॒दः॒ । सिन्धु॑म् । न । ना॒वा । दुः॒ऽइ॒ता । अति॑ । प॒र्षि॒ । अग्ने॑ । अ॒त्रि॒ऽवत् । नम॑सा । गृ॒णा॒नः । अ॒स्माक॑म् । बो॒धि॒ । अ॒वि॒ता । त॒नूना॑म् ॥विश्वानि । नः । दुःगहा । जातवेदः । सिन्धुम् । न । नावा । दुःइता । अति । पर्षि । अग्ने । अत्रिवत् । नमसा । गृणानः । अस्माकम् । बोधि । अविता । तनूनाम् ॥viśvāni | naḥ | duḥ-gahā | jāta-vedaḥ | sindhum | na | nāvā | duḥ-itā | ati | parṣi | agne | atri-vat | namasā | gṛṇānaḥ | asmākam | bodhi | avitā | tanūnām