Sukta 5.4
अस्माकमग्ने अध्वरं जुषस्व सहसः सूनो त्रिषधस्थ हव्यम् । वयं देवेषु सुकृतः स्याम शर्मणा नस्त्रिवरूथेन पाहि ॥
अ॒स्माक॑मग्ने अध्व॒रं जु॑षस्व॒ सह॑सः सूनो त्रिषधस्थ ह॒व्यम् । व॒यं दे॒वेषु॑ सु॒कृत॑: स्याम॒ शर्म॑णा नस्त्रि॒वरू॑थेन पाहि ॥
asmā́kam agne adhvaráṃ juṣasva sáhasaḥ sūno triṣádhastha havyám | vayáṃ devéṣu sukṛ́taḥ syāma śármaṇā nas trívārūthena pāhi ||
Accept, O Agni, our path of offering—O son of Might, who abidest in the triple seat—accept the oblation. May we be doers of the good among the gods; guard us with thy peace, with thy threefold sheltering protection.
अ॒स्माक॑म् । अ॒ग्ने॒ । अ॒ध्व॒रम् । जु॒ष॒स्व॒ । सह॑सः । सू॒नो॒ इति॑ । त्रि॒ऽस॒ध॒स्थ॒ । ह॒व्यम् । व॒यम् । दे॒वेषु॑ । सु॒ऽकृतः॑ । स्या॒म॒ । शर्म॑णा । नः॒ । त्रि॒ऽवरू॑थेन । पा॒हि॒ ॥अस्माकम् । अग्ने । अध्वरम् । जुषस्व । सहसः । सूनो इति । त्रिसधस्थ । हव्यम् । वयम् । देवेषु । सुकृतः । स्याम । शर्मणा । नः । त्रिवरूथेन । पाहि ॥asmākam | agne | adhvaram | juṣasva | sahasaḥ | sūno iti | tri-sadhastha | havyam | vayam | deveṣu | su-kṛtaḥ | syāma | śarmaṇā | naḥ | tri-varūthena | pāhi