Sukta 5.4
यस्त्वा हृदा कीरिणा मन्यमानोऽमर्त्यं मर्त्यो जोहवीमि । जातवेदो यशो अस्मासु धेहि प्रजाभिरग्ने अमृतत्वमश्याम् ॥
यस्त्वा॑ हृ॒दा की॒रिणा॒ मन्य॑मा॒नोऽम॑र्त्यं॒ मर्त्यो॒ जोह॑वीमि । जात॑वेदो॒ यशो॑ अ॒स्मासु॑ धेहि प्र॒जाभि॑रग्ने अमृत॒त्वम॑श्याम् ॥
yás tvā hṛdā́ kīríṇā mányamāno 'mártyaṃ mártyo jóhavīmi | jā́tavedo yáśo asmā́su dhehi prajā́bhir agne amṛtatvám aśyām ||
He who, being mortal, calls thee the Immortal with heart and with the singing word—O Jātavedas, place in us the glory of the true becoming; and with the powers of begetting, O Agni, may we attain immortality.
यः । त्वा॒ । हृ॒दा । की॒रिणा॑ । मन्य॑मानः । अम॑र्त्यम् । मर्त्यः॑ । जोह॑वीमि । जात॑ऽवेदः । यशः॑ । अ॒स्मासु॑ । धे॒हि॒ । प्र॒ऽजाभिः॑ । अ॒ग्ने॒ । अ॒मृ॒त॒ऽत्वम् । अ॒श्या॒म् ॥यः । त्वा । हृदा । कीरिणा । मन्यमानः । अमर्त्यम् । मर्त्यः । जोहवीमि । जातवेदः । यशः । अस्मासु । धेहि । प्रजाभिः । अग्ने । अमृतत्वम् । अश्याम् ॥yaḥ | tvā | hṛdā | kīriṇā | manyamānaḥ | amaryaḥ | johavīmi | jāta-vedaḥ | yaśaḥ | asmāsu | dhehi | pra-jābhiḥ | agne | amṛta-tvam | aśyām