Sukta 5.4
वयं ते अग्न उक्थैर्विधेम वयं हव्यैः पावक भद्रशोचे । अस्मे रयिं विश्ववारं समिन्वास्मे विश्वानि द्रविणानि धेहि ॥
व॒यं ते॑ अग्न उ॒क्थैर्वि॑धेम व॒यं ह॒व्यैः पा॑वक भद्रशोचे । अ॒स्मे र॒यिं वि॒श्ववा॑रं॒ समि॑न्वा॒स्मे विश्वा॑नि॒ द्रवि॑णानि धेहि ॥
vayáṃ te agna uktháir vidhéma vayáṃ havyáiḥ pāvaka bhadráśoce | asmè rayíṃ viśvávāraṃ sáminvāsmè viśvā́ni dráviṇāni dhehi ||
We serve thee, O Agni, with uplifted words; we serve thee with offerings, O Purifier of happy flame. In us increase the rayi that is desirable in all ways; in us place all the riches—every inward possession of the Truth.
व॒यम् । ते॒ । अ॒ग्ने॒ । उ॒क्थैः । वि॒धे॒म॒ । व॒यम् । ह॒व्यैः । पा॒व॒क॒ । भ॒द्र॒ऽशो॒चे॒ । अ॒स्मे इति॑ । र॒यिम् । वि॒श्वऽवा॑रम् । सम् । इ॒न्व॒ । अ॒स्मे इति॑ । विश्वा॑नि । द्रवि॑णानि । धे॒हि॒ ॥वयम् । ते । अग्ने । उक्थैः । विधेम । वयम् । हव्यैः । पावक । भद्रशोचे । अस्मे इति । रयिम् । विश्ववारम् । सम् । इन्व । अस्मे इति । विश्वानि । द्रविणानि । धेहि ॥vayam | te | agne | ukthaiḥ | vidhema | vayam | havyaiḥ | pāvaka | bhadra-śoce | asme iti | rayim | viśva-vāram | sam | inva | asme iti | viśvāni | draviṇāni | dhehi