Sukta 5.4
वधेन दस्युं प्र हि चातयस्व वयः कृण्वानस्तन्वे स्वायै । पिपर्षि यत्सहसस्पुत्र देवान्त्सो अग्ने पाहि नृतम वाजे अस्मान् ॥
व॒धेन॒ दस्युं॒ प्र हि चा॒तय॑स्व॒ वय॑: कृण्वा॒नस्त॒न्वे॒३॒॑ स्वायै॑ । पिप॑र्षि॒ यत्स॑हसस्पुत्र दे॒वान्त्सो अ॑ग्ने पाहि नृतम॒ वाजे॑ अ॒स्मान् ॥
vadhéna dasyúṃ prá hí cātayasva váyaḥ kṛṇvānástanvé svā́yai | píparṣi yát sahasasputra devā́ntsó agne pāhi nṛtama vā́je asmā́n ||
By thy slaying force drive forth and shatter the Dasyu within us; fashion wide room and free flight for our own embodied being. Since thou upholdest the gods, O son of Might, therefore, O Agni, protect us—O best leader of men—in the plenitude of force.
वे॒धेन॑ । दस्यु॑म् । प्र । हि । चा॒तय॑स्व । वयः॑ । कृ॒ण्वा॒नः । त॒न्वे॑ । स्वायै॑ । पिप॑र्षि । यत् । स॒ह॒सः॒ । पु॒त्र॒ । दे॒वान् । सः । अ॒ग्ने॒ । पा॒हि॒ । नृ॒ऽत॒म॒ । वाजे॑ । अ॒स्मान् ॥वेधेन । दस्युम् । प्र । हि । चातयस्व । वयः । कृण्वानः । तन्वे । स्वायै । पिपर्षि । यत् । सहसः । पुत्र । देवान् । सः । अग्ने । पाहि । नृतम । वाजे । अस्मान् ॥vedhena | dasyum | pra | hi | cātayasva | vayaḥ | kṛṇvānaḥ | tanve | svāyai | piparṣi | yat | sahasaḥ | putra | devān | saḥ | agne | pāhi | nṛ-tama | vāje | asmān