Sukta 5.4
जुष्टो दमूना अतिथिर्दुरोण इमं नो यज्ञमुप याहि विद्वान् । विश्वा अग्ने अभियुजो विहत्या शत्रूयतामा भरा भोजनानि ॥
जुष्टो॒ दमू॑ना॒ अति॑थिर्दुरो॒ण इ॒मं नो॑ य॒ज्ञमुप॑ याहि वि॒द्वान् । विश्वा॑ अग्ने अभि॒युजो॑ वि॒हत्या॑ शत्रूय॒तामा भ॑रा॒ भोज॑नानि ॥
juṣṭó damū́nā átithir duroṇá imáṃ no yajñám úpa yāhi vidvā́n | viśvā agne abhiyújo vihatya śatrūyatā́m ā́ bharā́ bhojanā́ni ||
O Agni, made glad and at home in the dwelling, the knowing Guest—come near to this our sacrifice. Having struck down all who press upon us in hostility, bring to us the enjoyments: the nourishings and plenitudes that sustain the inner being.
जुष्टः॑ । दमू॑नाः । अति॑थिः । दु॒रो॒णे । इ॒मम् । नः॒ । य॒ज्ञम् । उप॑ । या॒हि॒ । वि॒द्वान् । विश्वा॑ । अ॒ग्ने॒ । अ॒भि॒ऽयुजः॑ । वि॒ऽहत्य॑ । श॒त्रु॒ऽय॒ताम् । आ । भ॒र॒ । भोज॑नानि ॥जुष्टः । दमूनाः । अतिथिः । दुरोणे । इमम् । नः । यज्ञम् । उप । याहि । विद्वान् । विश्वा । अग्ने । अभियुजः । विहत्य । शत्रुयताम् । आ । भर । भोजनानि ॥juṣṭaḥ | damūnāḥ | atithiḥ | duroṇe | imam | naḥ | yajñam | upa | yāhi | vidvān | viśvā | agne | abhi-yujaḥ | vi-hatya | śatru-yatām | ā | bhara | bhojanāni