Sukta 5.4
यस्मै त्वं सुकृते जातवेद उ लोकमग्ने कृणवः स्योनम् । अश्विनं स पुत्रिणं वीरवन्तं गोमन्तं रयिं नशते स्वस्ति ॥
यस्मै॒ त्वं सु॒कृते॑ जातवेद उ लो॒कम॑ग्ने कृ॒णव॑: स्यो॒नम् । अ॒श्विनं॒ स पु॒त्रिणं॑ वी॒रव॑न्तं॒ गोम॑न्तं र॒यिं न॑शते स्व॒स्ति ॥
yásmai tváṃ sukṛ́te jā́taveda u lokám agne kṛṇávaḥ syonám | aśvínam sá putríṇaṃ vīrávantaṃ gómantaṃ rayíṃ naśate svastí ||
For whom thou, O Jātavedas, makest a happy world-room, O Agni, because he is a doer of the good—he attains, in well-being, the swift moving force, the power of sons, the heroic strength, the light-cows, and the rayi: the plenitude of being.
यस्मै॑ । त्वम् । सु॒ऽकृते॑ । जा॒त॒ऽवे॒दः॒ । ऊँ॒ इति॑ । लो॒कम् । अ॒ग्ने॒ । कृ॒णवः॑ । स्यो॒नम् । अ॒श्विन॑म् । सः । पु॒त्रिण॑म् । वी॒रऽव॑न्तम् । गोऽम॑न्तम् । र॒यिम् । न॒श॒ते॒ । स्व॒स्ति ॥यस्मै । त्वम् । सुकृते । जातवेदः । ऊँ इति । लोकम् । अग्ने । कृणवः । स्योनम् । अश्विनम् । सः । पुत्रिणम् । वीरवन्तम् । गोमन्तम् । रयिम् । नशते । स्वस्ति ॥yasmai | tvam | su-kṛte | jāta-vedaḥ | oṃ iti | lokam | agne | kṛṇavaḥ | syonam | aśvinam | saḥ | putriṇam | vīra-vantam | go--mantam | rayim | naśate | svasti