Sukta 5.39
मंहिष्ठं वो मघोनां राजानं चर्षणीनाम् । इन्द्रमुप प्रशस्तये पूर्वीभिर्जुजुषे गिरः ॥
मंहि॑ष्ठं वो म॒घोनां॒ राजा॑नं चर्षणी॒नाम् । इन्द्र॒मुप॒ प्रश॑स्तये पू॒र्वीभि॑र्जुजुषे॒ गिर॑: ॥
maṃhíṣṭhaṃ vo maghónāṃ rājā́naṃ carṣaṇīnā́m | índram úpa práśastaye pūrvī́bhir jujuṣe gíraḥ ||
Indra—most bountiful among the givers, king of the human peoples—we draw near to him for praise; with ancient utterances he takes delight, he accepts the seer’s words.
मंहि॑ष्ठम् । वः॒ । म॒घोना॑म् । राजा॑नम् । च॒र्ष॒णी॒नाम् । इन्द्र॑म् । उप॑ । प्रऽश॑स्तये । पू॒र्वीभिः॑ । जु॒जु॒षे॒ । गिरः॑ ॥मंहिष्ठम् । वः । मघोनाम् । राजानम् । चर्षणीनाम् । इन्द्रम् । उप । प्रशस्तये । पूर्वीभिः । जुजुषे । गिरः ॥maṃhiṣṭham | vaḥ | maghonām | rājānam | carṣaṇīnām | indram | upa | pra-śastaye | pūrvībhiḥ | jujuṣe | giraḥ