Sukta 5.39
अस्मा इत्काव्यं वच उक्थमिन्द्राय शंस्यम् । तस्मा उ ब्रह्मवाहसे गिरो वर्धन्त्यत्रयो गिरः शुम्भन्त्यत्रयः ॥
अस्मा॒ इत्काव्यं॒ वच॑ उ॒क्थमिन्द्रा॑य॒ शंस्य॑म् । तस्मा॑ उ॒ ब्रह्म॑वाहसे॒ गिरो॑ वर्ध॒न्त्यत्र॑यो॒ गिर॑: शुम्भ॒न्त्यत्र॑यः ॥
asmā́ ít kā́vyaṃ váca ukthám índrāya śáṃsyam | tásmā u bráhma-vāhase gíro vardhanty átrayo gíraḥ śumbhanty átrayaḥ ||
For him indeed is this poet-seer’s word, this hymn to be proclaimed for Indra; to him, the bearer of the brahman-force, the Atris’ utterances grow and are made splendid—our words become bright instruments of power.
अस्मै॑ । इत् । काव्य॑म् । वचः॑ । उ॒क्थम् । इन्द्रा॑य । शंस्य॑म् । तस्मै॑ । ऊँ॒ इति॑ । ब्रह्म॑ऽवाहसे । गिरः॑ । व॒र्ध॒न्ति॒ । अत्र॑यः । गिरः॑ । शु॒म्भ॒न्ति॒ । अत्र॑यः ॥अस्मै । इत् । काव्यम् । वचः । उक्थम् । इन्द्राय । शंस्यम् । तस्मै । ऊँ इति । ब्रह्मवाहसे । गिरः । वर्धन्ति । अत्रयः । गिरः । शुम्भन्ति । अत्रयः ॥asmai | it | kāvyam | vacaḥ | uktham | indrāya | śaṃsyam | tasmai | oṃ iti | brahma-vāhase | giraḥ | vardhanti | atrayaḥ | giraḥ | śumbhanti | atrayaḥ