Sukta 5.38
शुष्मासो ये ते अद्रिवो मेहना केतसापः । उभा देवावभिष्टये दिवश्च ग्मश्च राजथः ॥
शुष्मा॑सो॒ ये ते॑ अद्रिवो मे॒हना॑ केत॒साप॑: । उ॒भा दे॒वाव॒भिष्ट॑ये दि॒वश्च॒ ग्मश्च॑ राजथः ॥
śúṣmāso yé te adrivo mehánā ketá-sāpaḥ | ubhā́ devā́v abhiṣṭáye diváś ca gmáś ca rājathaḥ ||
Those powers of force that are yours, O lord of the stone, that pour and seize by the conscious sign—by them you, the two gods, rule for our help both heaven and the marching earth-field.
शुष्मा॑सः । ये । ते॒ । अ॒द्रि॒ऽवः॒ । मे॒हना॑ । के॒त॒ऽसापः॑ । उ॒भा । दे॒वौ । अ॒भिष्ट॑ये । दि॒वः । च॒ । ग्मः । च॒ । रा॒ज॒थः॒ ॥शुष्मासः । ये । ते । अद्रिवः । मेहना । केतसापः । उभा । देवौ । अभिष्टये । दिवः । च । ग्मः । च । राजथः ॥śuṣmāsaḥ | ye | te | adri-vaḥ | mehanā | keta-sāpaḥ | ubhā | devau | abhiṣṭaye | divaḥ | ca | gmaḥ | ca | rājathaḥ