Sukta 5.37
न स राजा व्यथते यस्मिन्निन्द्रस्तीव्रं सोमं पिबति गोसखायम् । आ सत्वनैरजति हन्ति वृत्रं क्षेति क्षितीः सुभगो नाम पुष्यन् ॥
न स राजा॑ व्यथते॒ यस्मि॒न्निन्द्र॑स्ती॒व्रं सोमं॒ पिब॑ति॒ गोस॑खायम् । आ स॑त्व॒नैरज॑ति॒ हन्ति॑ वृ॒त्रं क्षेति॑ क्षि॒तीः सु॒भगो॒ नाम॒ पुष्य॑न् ॥
ná sá rājā vyathate yásminn índras tīvráṃ sómam píbatí gó-sakhāyam | ā́ satvanáir ájati hánti vṛtráṃ kṣéti kṣitī́ḥ su-bhágo nā́ma púṣyan ||
That king does not falter in whom Indra drinks the intense Soma, the companion of the Rays. With his victorious energies he drives on; he slays the Coverer. He dwells mastering the domains, increasing his fortunate name—his being grows in the law of victory.
न । सः । राजा॑ । व्य॒थ॒ते॒ । यस्मि॑न् । इन्द्रः॑ । ती॒व्रम् । सोम॑म् । पिब॑ति । गोऽस॑खायम् । आ । स॒त्व॒नैः । अज॑ति । हन्ति॑ । वृ॒त्रम् । क्षेति॑ । क्षि॒तीः । सु॒ऽभगः॑ । नाम॑ । पुष्य॑न् ॥न । सः । राजा । व्यथते । यस्मिन् । इन्द्रः । तीव्रम् । सोमम् । पिबति । गोसखायम् । आ । सत्वनैः । अजति । हन्ति । वृत्रम् । क्षेति । क्षितीः । सुभगः । नाम । पुष्यन् ॥na | saḥ | rājā | vyathate | yasmin | indraḥ | tīvram | somam | pibati | go--sakhāyam | ā | satvanaiḥ | ajati | hanti | vṛtram | kṣeti | kṣitīḥ | su-bhagaḥ | nāma | puṣyan