Sukta 5.37
पुष्यात्क्षेमे अभि योगे भवात्युभे वृतौ संयती सं जयाति । प्रियः सूर्ये प्रियो अग्ना भवाति य इन्द्राय सुतसोमो ददाशत् ॥
पुष्या॒त्क्षेमे॑ अ॒भि योगे॑ भवात्यु॒भे वृतौ॑ संय॒ती सं ज॑याति । प्रि॒यः सूर्ये॑ प्रि॒यो अ॒ग्ना भ॑वाति॒ य इन्द्रा॑य सु॒तसो॑मो॒ ददा॑शत् ॥
puṣyā́t kṣémé abhí yóge bhavāty ubhé vṛ́tau saṃyatī́ sáṃ jayāti | priyáḥ sū́rye priyó agnā́ bhavāti yá índrāya sutá-sómo dadā́śat ||
He thrives in peace and becomes victorious in the joining; in both turns of circumstance, when they meet in conflict, he wins entirely. He becomes dear to the Sun and dear to the Fire—he who has given the pressed Soma to Indra.
पुष्या॑त् । क्षेमे॑ । अ॒भि । योगे॑ । भ॒वा॒ति॒ । उ॒भे इति॑ । वृतौ॑ । सं॒य॒ती इति॑ स॒म्ऽय॒ती । सम् । ज॒या॒ति॒ । प्रि॒यः । सूर्ये॑ । प्रि॒यः । अ॒ग्ना । भ॒वा॒ति॒ । यः । इन्द्रा॑य । सु॒तऽसो॑मः । ददा॑शत् ॥पुष्यात् । क्षेमे । अभि । योगे । भवाति । उभे इति । वृतौ । संयती इति सम्यती । सम् । जयाति । प्रियः । सूर्ये । प्रियः । अग्ना । भवाति । यः । इन्द्राय । सुतसोमः । ददाशत् ॥puṣyāt | kṣeme | abhi | yoge | bhavāti | ubhe iti | vṛtau | saṃyatī itisam-yatī | sam | jayāti | priyaḥ | sūrye | priyaḥ | agnā | bhavāti | yaḥ | indrāya | suta-somaḥ | dadāśat