Sukta 5.37
समिद्धाग्निर्वनवत्स्तीर्णबर्हिर्युक्तग्रावा सुतसोमो जराते । ग्रावाणो यस्येषिरं वदन्त्ययदध्वर्युर्हविषाव सिन्धुम् ॥
समि॑द्धाग्निर्वनवत्स्ती॒र्णब॑र्हिर्यु॒क्तग्रा॑वा सु॒तसो॑मो जराते । ग्रावा॑णो॒ यस्ये॑षि॒रं वद॒न्त्यय॑दध्व॒र्युर्ह॒विषाव॒ सिन्धु॑म् ॥
samíddhāgnir vanavat stīrṇá-barhir yuktá-grāvā sutá-somo jarāte | grā́vāṇo yásyeṣiráṃ vádanty áyad adhvaryúr havíṣā́va síndhum ||
Kindled is the Fire, rich as a forest; the sacred grass is strewn; the pressing-stones are yoked; the expressed Soma is ready for the rite. The stones of his pressing speak the impelling word; the Adhvaryu, with the offering, has set the stream in motion.
समि॑द्धऽअग्निः । व॒न॒व॒त् । स्ती॒र्णऽब॑र्हिः । यु॒क्तऽग्रा॑वा । सु॒तऽसो॑मः । ज॒रा॒ते॒ । ग्रावा॑णः । यस्य॑ । इ॒षि॒रम् । वद॑न्ति । अय॑त् । अ॒ध्व॒र्युः । ह॒विषा॑ । अव॑ । सिन्धु॑म् ॥समिद्धअग्निः । वनवत् । स्तीर्णबर्हिः । युक्तग्रावा । सुतसोमः । जराते । ग्रावाणः । यस्य । इषिरम् । वदन्ति । अयत् । अध्वर्युः । हविषा । अव । सिन्धुम् ॥samiddha-agniḥ | vanavat | stīrṇa-barhiḥ | yukta-grāvā | suta-somaḥ | jarāte | grāvāṇaḥ | yasya | iṣiram | vadanti | ayat | adhvaryuḥ | haviṣā | ava | sindhum