Sukta 5.37
सं भानुना यतते सूर्यस्याजुह्वानो घृतपृष्ठः स्वञ्चाः । तस्मा अमृध्रा उषसो व्युच्छान्य इन्द्राय सुनवामेत्याह ॥
सं भा॒नुना॑ यतते॒ सूर्य॑स्या॒जुह्वा॑नो घृ॒तपृ॑ष्ठ॒: स्वञ्चा॑: । तस्मा॒ अमृ॑ध्रा उ॒षसो॒ व्यु॑च्छा॒न्य इन्द्रा॑य सु॒नवा॒मेत्याह॑ ॥
sáṃ bhā́nunā yatate sū́ryasyā́juhvāno ghṛtá-pṛṣṭhaḥ sváñcāḥ | tásmā amṛ́dhrā uṣáso vy ùcchānyá índrāya sunávā́m ety ā́ha ||
With the Sun’s ray he gathers himself and strives forward, offering, with a back of clarified light, moving in his own right direction. For him the unerring Dawns widen and break forth—he who says: ‘Let us press Soma for Indra.’
सम् । भा॒नुना॑ । य॒त॒ते॒ । सूर्य॑स्य । आ॒ऽजुह्वा॑नः । घृ॒तऽपृ॑ष्ठः । सु॒ऽअञ्चाः॑ । तस्मै॑ । अमृ॑ध्राः । उ॒षसः॑ । वि । उ॒च्छा॒न् । यः । इन्द्रा॑य । सु॒नवा॑म । इति॑ । आह॑ ॥सम् । भानुना । यतते । सूर्यस्य । आजुह्वानः । घृतपृष्ठः । सुअञ्चाः । तस्मै । अमृध्राः । उषसः । वि । उच्छान् । यः । इन्द्राय । सुनवाम । इति । आह ॥sam | bhānunā | yatate | sūryasya | ājuhvānaḥ | ghṛta-pṛṣṭhaḥ | su-añcāḥ | tasmai | amṛdhrāḥ | uṣasaḥ | vi | ucchān | yaḥ | indrāya | sunavāma | iti | āha