Sukta 5.35
त्वं तमिन्द्र मर्त्यममित्रयन्तमद्रिवः । सर्वरथा शतक्रतो नि याहि शवसस्पते ॥
त्वं तमि॑न्द्र॒ मर्त्य॑ममित्र॒यन्त॑मद्रिवः । स॒र्व॒र॒था श॑तक्रतो॒ नि या॑हि शवसस्पते ॥
tváṁ tám indra mártyam amítrayantam adrivaḥ | sarvaráthā śatakrato ní yāhi śavasaḥ pate ||
Thou, O Indra, go down upon that mortal who is turning toward hostility; O lord of the thunderstone, O hundred-skilled one—come with all thy chariots of force, O master of energy, and bring the downward pressure that breaks the adverse will.
त्वम् । तम् । इ॒न्द्र॒ । मर्त्य॑म् । अ॒मि॒त्र॒ऽयन्त॑म् । अ॒द्रि॒ऽवः॒ । स॒र्व॒ऽर॒था । श॒त॒क्र॒तो॒ इति॑ शतऽक्रतो । नि । या॒हि॒ । श॒व॒सः॒ । प॒ते॒ ॥त्वम् । तम् । इन्द्र । मर्त्यम् । अमित्रयन्तम् । अद्रिवः । सर्वरथा । शतक्रतो इति शतक्रतो । नि । याहि । शवसः । पते ॥tvam | tam | indra | martyam | amitra-yantam | adri-vaḥ | sarva-rathā | śatakrato itiśata-krato | ni | yāhi | śavasaḥ | pate